51b अपलाप्यते [अत]एवाक्षेपरूपकविलक्षणमेतत् । पद्ममादिर्यस्य भ्रमरादेः तस्य, भावः तेन लक्षितस्य रूपणात् परिकल्पनात् । मुखादेरिति गम्यते । तत्त्वापह्नवरूपकमीदृशं तत्त्वस्य वस्तुरूपस्य अपह्नवेन रूपकमिति । किमेवमाविष्कृतं स्यादित्याह—उद्भावितः प्रकाशितः । गुणस्य कान्त्यादेरुत्कर्षा[ति]शयो येन यत्र वा तत्तथोक्तमिति ॥

कि[मि]यन्त एव रूप[क]भेदाः ? नेत्यपर्यवसायेन उपमासामान्येन निगमयन्नाह—

न पर्यन्तो विकल्पानां रूपकोपमयोरतः ।
दिङ्मात्रं दर्शितं धीरैरनुक्तमनुमीयताम् ॥ ९६ ॥

रूपकस्योपमायाश्च विकल्पाः प्रभेदाः सामान्यलक्षणव्याप्ताः । तेषां पर्यन्तोऽवसानं नास्ति यतस्ततः कारणात्, दिङ्मात्रं सर्वविकल्पव्यापकसामान्यलक्षणानुगतविशेषरूपं कियदपि लक्ष्यं शेषविकल्पानुगमद्वारं दर्शितम् उक्तं धीरैः कविभिरिति परमुखेनाचष्टे । शेषमतिदिशति—अनुक्तमिहानुपात्तं विकल्पजातं सामान्यविशेष