तद् ब्रवीति—

इत्येवमादिराक्षेपो हेत्वाक्षेप इति स्मृतः ।
अनयैव दिशान्येऽपि विकल्पाः शक्यमूहितुम् ॥ १६६ ॥

इत्येवमनन्तरोक्तः प्रकारः आदिर्यस्येति एवमादिराक्षेपः हेत्वाक्षेप इति स्मृतः तज्जैः । हेतूपन्यासेन निषेधात् । शेषानाक्षेपविकल्पानतिदिशन्ति गमयन्ति । अनयैव अनन्तरदर्शितया दिशा आक्षेपविकल्पगत्या अन्येऽप्यनुक्ता विकल्पा आक्षेपप्रभेदा ऊहितुमनुगन्तुं शक्यम् ।

ननु वाच्यलिङ्गत्वात् तव्यादेः विकल्पो इत्यपेक्ष्य शक्या इति युक्तम् । उच्यते, इह शक्यमिति सामान्यविवक्षया प्रयुज्यते । ततः किं शक्यमिति विशेषापेक्षायां विकल्पा इति सं[भ]न्स्यते । तत्र यद्यपि बहुत्वं पुंस्त्वं च गम्यते, तथापि पदसंस्कारकालापेक्षितमन्तरङ्गमव्यक्तपुंस्त्वम्, एकवचनं च उत्तरकालभावि । तेन बहिरङ्गं बहुवचनं चन बाधितुं शक्नोति । अयं च न्यायोऽन्यत्रापि यथासम्भवमनुसर्तव्य इति ॥

ते चैवमभ्यूह्याः—

काचिदेषा सुरस्त्रीणां कथञ्चिदिह दृश्यते ।
नाकलोकाश्रया नैषा निमेषाभिज्ञलोचना ॥
विपर्यासाक्षेपः ॥
117
इयमाद्या विधेः सृष्टिर्मर्त्यस्त्रीषु विलोक्यते ।
रूपमीदृक् कुतस्तासामियं काचित्सुराङ्गना ॥
निश्चयाक्षेपः ॥
न प्रसीदसि तन्वङ्गि ! प्राणैरपि ममार्पितैः ।
किमतः परमादेयं यदेवमपि निष्ठुरा ॥
प्रसादाक्षेपः ॥
एवमपरेऽप्याक्षेपविकल्पाः समुन्नेयाः ॥