इत्येवमादयो भेदाः प्रयोगेष्वस्य लक्षिताः ।
उदाहरणमालैषां रूपयुक्त्यै निदर्श्यते ॥ १६९ ॥

इत्येवम् अनन्तरोक्तो विचित्रो भेद आदिर्येषां यथासम्भवमविरोधादीनां ते भेदाः विकल्पाः प्रयोगेषु काव्येषु लक्षिताः दृष्टाः कविभिः अस्य अर्थान्तरन्यासस्य सम्बन्धिनः । एषां भेदानां रूपस्य स्वभावस्य युक्त्यै प्रत्यवगमार्थम् । उदाहरणानां प्रयोगाणां माला वर्गो निदर्श्यते इति ॥