व्यतिरेकमाविष्कुर्वन्नाह—
विवक्षितयोः कयोश्चिद् द्वयोर्वस्तुनोरर्थयोः सादृश्ये कथञ्चित् तुल्यत्वे शब्देन वाचकेन साक्षादुपात्ते प्रतिपादिते सति शब्दाद्वा उपात्ते गृहीते प्रतिपत्तिप्रतीते वा । अशब्दोपात्तेऽपि शब्दोपात्तार्थबलात् प्रकरणादेर्वा ज्ञाने न केवलं शब्दोपात्ते । द्वयी खलु प्रतीतिः सम्भवति । शाब्दी नैयायिकी च, अन्यथा प्रतीत्यसंभवात् । यदुक्तम्—
तत्र तयोर्वस्तुनोर्विषये भेदस्य कस्यचिद्विशेषणस्य तत्सम्बन्धिनः कथनमभिधानं यदीत्यनूद्य स व्यतिरेकः कथ्यत इति विधीयते ॥
122- १. ७५↩