61b प्रतीतिर्वा विषयो गोचरः, तस्य तत्र वा प्राप्तेः कारणात् । प्रतीयमानत्वादिति यावत् ॥

अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि ।
असावञ्जनसंकाशस्त्वं तु चामीकरच्छविः ॥ १८१ ॥

अम्बुराशिः सागरः । भवानपि त्वं चाभिन्नवेलौ । अभिन्ना अनतिक्रान्ता वेला मर्यादा याभ्यामिति । गम्भीरावगाधस्वभावाविति सादृश्यम् । भेदमाहअसावम्बुराशिरञ्जनसंकाशः अञ्जनेन तुल्यः । कृष्ण इति यावत् । त्वं तु भवान् पुनः चामीकरस्य सुवर्णस्येव च्छविर्वर्णोऽस्येति चामीकरच्छविर्गौर इति यावत् ॥

तद्विवृणोति—

उभयव्यतिरेकोऽयमुभयोर्भेदकौ गुणौ ।
कार्ष्ण्यं पिशङ्गता चोभौ यत् पृथग् दर्शिताविह ॥ १८२ ॥