123 यत् यस्मात्कार्ष्ण्यं श्यामत्वं पिश[ङ्ग]ता गौरत्वं चेत्येतौ गुणौ धर्मौ उभयोरम्बुराशिपुरुषयोरसाधारणत्वेन भेदकौ विसदृशत्वकरौ पृथग् दर्शितौ शब्देनोपात्तौ इह प्रयोगे, तस्मादयमुभयव्यतिरेकः प्रतिपत्तव्य इति ॥

त्वं समुद्रश्च दुर्वारौ महासत्त्वौ सतेजसौ ।
इयता युवयोर्भेदः स जलात्मा पटुर्भवान् ॥ १८३ ॥

त्वं भवान् समुद्रश्च युवां दुर्वारो । दुष्करं वाः पानीयं यस्य समुद्रस्य, पुरुषस्तु दुर्वारोऽव्याहतप्रसरः । शब्दश्लेषः । महासत्त्वौ महान्तः सत्त्वाः मकरादयः । महान्ति वा सत्वानि यत्र समुद्रे । महात्सत्वं वीर्यंम् यस्य पुंसः । शब्दश्लेषः । सतेजसौ सह तेजसा वह्निना वाडवेन वर्तते समुद्रः । पुरुषस्तु सह तेजसा अनुभावेन वर्तते । अत्रापि शब्दः श्लिष्यते । साम्यमेतत् भिन्दन्नाह । इयता एतावन्मात्रेण युवयोः समुद्रस्य तव च भेदो वैलक्षण्यं लक्ष्यते । समुद्रो जलात्मा जलमुदकमात्मा यस्य जडश्चाचिद्रूप आत्मा यस्येति शब्दच्छलम् । भवान् पटुः कुशलः प्राप्त इति ॥

तद्विभजते—

स एष श्लेषरूपत्वात् सश्लेष इति गृह्यताम् ।
साक्षेपश्च सहेतुश्च दर्श्यते तदपि द्वयम् ॥ १८४ ॥

स एष ईदृशो व्यतिरेकः सह श्लेषेण वर्तते सश्लेष इत्येवं गृह्यतां व्यवह्रियताम् । कुतः श्लेषो यथोक्तरूपः स्वभावो यस्य तस्य भावः तस्मात् । सहाक्षेपेण सह च हेतुना तिष्ठतीति साक्षेपश्च सहेतुश्चेति द्वावपरौ व्यतिरेकौ विद्येते । तदप्येतद् द्वयं न केवलमन्यत् । दर्श्यते उदाह्रियते ॥

स्थितिमानपि धीरोऽपि रत्नानामाकरोऽपि सन् ।
तव कक्ष्यां न यात्येव मलिनो मकरालयः ॥ १८५ ॥

भवानिव स्थितिमान् मर्यादावानपि धीरोऽपि निर्विकारोऽपि रत्नानां मुक्ताप्रबालानाम् आकरो निलयोऽपि सन् तव कक्ष्यां समतां न यात्येव मकरालयः । समुद्रो मलिनः अशुद्धः । त्वं तु परिशुद्ध इति साक्षेपोऽयमीदृशो व्यतिरेकः प्रतिपत्तव्यः । न यातीति निषेधनादिति ॥