नन्वयमपि सादृश्यव्यतिरेक एव, चन्द्रहंसयोर्नभःपयसोश्च शुद्ध्यादिना सदृशयोर्यथोक्तभेदकथनात् । तत्किं पूर्वक एव सादृश्यव्यतिरेक उच्यते इत्याशङ्क्याह—

पूर्वत्र शब्दवत्साम्यमुभयत्रापि भेदकम् ।
भृङ्गनेत्रादितुल्यं तत् सदृशव्यतिरेकता ॥ १९४ ॥

पूर्वत्र त्वन्मुखं पुण्डरीकं चेत्यादौ, उभयत्रापि मुखे पुण्डरीके च सादृश्यं शब्दवत् । शब्दो वाचकोऽस्मिन् इति शब्दोपात्तमिति यावत् । चन्द्रोऽयमित्यादौ तु प्रतीतं न वचनलब्धम्, भृङ्गश्च नेत्रं च तदादिर्यस्य तल्लोलत्वस्य तत्तुल्यं सदृशं सत् भेदकं मुखपुण्डरीकयोरसाम्यनिमित्तमुक्तम्, तत्तस्मात् सदृशव्यतिरेकतापूर्वक एव तन्मुखमित्यादिः सादृश्यव्यतिरेक उच्यते, नानन्तरश्चन्द्रोऽयमित्यादि । तत्र शब्दवत्सादृश्याभावात् । शब्दवता च सादृश्येन सदृशव्यतिरेकव्यवहारस्य कर्तुमिष्टत्वात् ।

127 अथवा द्वयोरपि सदृशव्यतिरेकता व्याख्यायते । पूर्वत्रेत्यादि चन्द्रोऽयमित्यादौ प्रतीतं सादृश्यं न शब्दवत् यथा विवृतं पूर्वत्र । त्वन्मुखमित्यादौ च शब्दवत् । इयता भेदः । भेदकं भृङ्गनेत्रादि । नक्षत्रकुमुदाम्बरतोयपरिगृहीतिरादिशब्देन । तदेतदुभयत्रापि त्वन्मुखमित्यादौ चन्द्र इत्यादौ च तुल्यं सदृशं वर्तते । तस्मात् सदृशव्यतिरेकता उभयत्रापीत्यपेक्ष्यते । उदाहरणद्वयमपीदं सदृशव्यतिरेकः । सदृशपदार्थकृतो व्यतिरेकः सदृशव्यतिरेक इति कृत्वा । एतदर्थं च सदृशव्यतिरेकश्च पुनरन्यः प्रदर्श्यते इति 2. 190 पादान्तरं द्रष्टव्यम् ॥