अरत्नालोकसंहार्यमहार्यं सूर्यरश्मिभिः ।
दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ॥ १९५ ॥

यूनां तरुणानाम् । प्रभवत्यस्मादिति प्रभवः । यौवनं द्वितीयं वयः प्रभवः कारणं यस्य तत्तमोऽन्धकारं सदसद्विवेकविबन्धकत्वाद् अज्ञानम् । रत्नानां मणीनामालोकैः दीप्तिभिः संहार्यं भेद्यं न तथा अरत्नालोकसंहार्यम् । सूर्यस्य रश्मिभिरभीषुभिः अवार्यमनपनेयम् । दृष्टेः सदसद्दर्शनस्य रोधं विबन्धं करोति [इति] दृष्टिरोधकरं यूनां विषममिदं तम इति ॥