तदुभयं विवृणोति—

उभयत्र पुमान् कश्चिद्वृक्षत्वेनोपवर्णितः ।
सर्वे साधारणा धर्माः पूर्वत्रान्यत्र तु द्वयम् ॥ २०९ ॥

134 उभयत्र उभयो रूढ़मूल इत्यादौ अनल्पविटपाभोग इत्यादौ च प्रयोगयोः पुमान् पुरुषः कश्चित् अभिमतः वृक्षत्वेन वृक्षगुणसाम्यात् द्रुमरूपेणोपवर्णितः संकीर्तितः तत्परत्वात् अनपेक्षितस्वार्थवृत्तेर्वृक्षादिशब्दस्य पुरुषविशेषप्रत्यायकत्वम् । भेदस्त्वियान् । पूर्वत्र रूढमूलमित्यादौ सर्वे ये केचित् तत्रोपात्ताः रूढ़मूलमित्यादयः साधारणास्तुल्या धर्मा विशेषणानि उभयत्रापि सम्भवात् । अन्यत्र तु अनन्तरोक्ते अनल्पविटपाभोग इत्यादौ पुनर्द्वयं साधारणमसाधारणं सच्छायत्वस्य स्थैर्यवत्तायाश्च उभयत्रापि सम्भवात् । अनल्पविटपाभोगत्वस्य पुष्पफलसमृद्धिमत्तायाश्च वृक्ष एव सम्भवादिति ॥