134 उभयत्र उभयो रूढ़मूल इत्यादौ अनल्पविटपाभोग इत्यादौ च प्रयोगयोः पुमान् पुरुषः कश्चित् अभिमतः वृक्षत्वेन वृक्षगुणसाम्यात् द्रुमरूपेणोपवर्णितः संकीर्तितः तत्परत्वात् अनपेक्षितस्वार्थवृत्तेर्वृक्षादिशब्दस्य पुरुषविशेषप्रत्यायकत्वम् । भेदस्त्वियान् । पूर्वत्र रूढमूलमित्यादौ सर्वे ये केचित् तत्रोपात्ताः रूढ़मूलमित्यादयः साधारणास्तुल्या धर्मा विशेषणानि उभयत्रापि सम्भवात् । अन्यत्र तु अनन्तरोक्ते अनल्पविटपाभोग इत्यादौ पुनर्द्वयं साधारणमसाधारणं सच्छायत्वस्य स्थैर्यवत्तायाश्च उभयत्रापि सम्भवात् । अनल्पविटपाभोगत्वस्य पुष्पफलसमृद्धिमत्तायाश्च वृक्ष एव सम्भवादिति ॥

निवृत्तव्यालसंसर्गो निसर्गमधुराशयः ।
अयमम्भोनिधिः कष्टं कालेन परिशोष्यते ॥ २१० ॥

अयम् अपरोक्षवृत्तिः अम्भोनिधिः सागरः कालेन संवर्तसमयेन परिशोष्यते विलयं नीयते । कष्टं बत इति खेदे । पुरुषः कालेन मृत्युना परिशोष्यते परासुः क्रियते । अम्भोनिधिः व्यालैः सर्पैः संसृष्टः । पुरुषस्तु, निवृत्तो व्यालैः दुष्टैः संसर्गोऽस्येति निवृत्तव्यालसंसर्गः । अम्भोनिधिः स्वभावलवणजललक्षणाशययुक्तः । पुरुषस्तु निसर्गेण स्वभावेन मधुरः सुरसः प्रीतिकरः आशयः चित्तं यस्येति निसर्गमधुराशयः । गाम्भीर्यादयस्तु गुणाः साधारणाः प्रतीयन्त एव । अन्यथा कथमम्भोनिधित्वेन पुरुषो वर्ण्यते ततश्चापूर्वोऽयमम्भोनिधिरिति ॥

तद् व्याचष्टे—

इत्यपूर्वसमासोक्तिः पूर्वधर्मनिवर्तनात् ।
समुद्रेण समानस्य पुंसो व्यावृत्तिसूचने ॥ २११ ॥

इति ईदृक् अपूर्वसमासोक्तिः इष्यते । व्यावृत्तिसूचनेऽपरिशेषेण प्रतीतौ विषये । तेन समुद्रेण समानस्य पुंसः उभयोरपि शोषणलक्षणस्य विनाशस्य वृत्तेरुपात्तापेक्षया एतदुक्तम् । गाम्भीर्यादावपि समानस्येति गम्यत एव । समुद्रे अपूर्वस्य प्रसिद्धस्य धर्मस्य व्यालसंसर्गादेः निवर्तनात् निषेधात् निवृत्तव्याल इत्यादिना । अपूर्वसमासोक्तिरिति प्रकृतम् ॥

॥ इति समासोक्तिचक्रम् ॥