132

तामुदाहरन्नाह—

पिबन्मधु यथाकामं भ्रमरः फुल्लपङ्कजे ।
अप्यसन्नद्धसौरभ्यं पश्य चुम्बति कुड्मलम् ॥ २०४ ॥

फुल्ले प्रबुद्धे पङ्कजे स्थितं मधु मकरन्दं यथाकामम् इच्छानुरूपं पिबन् भ्रमरः । असन्नद्धं सौरभ्यमस्मिन्निति असन्नद्धसौरभ्यम् अनुपजाततादृशगुणं कुड्मलं चुम्बति । पश्य यथा अस्यातिलोलता । इत्यामुखयति कञ्चित् । शब्दार्थस्तावदयमीदृशः प्रतिभाति ॥

भावार्थमत्र दर्शयन्नाह—

इति प्रौढाङ्गनाबद्धरतिलीलस्य रागिणः ।
कस्याञ्चिदपि बालायामिच्छावृत्तिर्विभाव्यते ॥ २०५ ॥

इति इह वाक्ये प्रयुक्ते प्रौढ़ायाम् आरूढ़मन्मथविभ्रमविमर्दभूमौ अङ्गनायां बद्धा निवेशिता रतिः सम्भोग एव लीला विभ्रमो येन यस्य वा तस्य रागिणः । कस्याञ्चित् बालायाम् प्रथमवयोवर्तिन्याम् अप्रौढ़ायां कस्याञ्चिद्विषये इच्छाया रागस्य वृत्तिः प्रसरो विभाव्यते प्रतीयते । न तु साक्षादुच्यते । ततोऽयमेवार्थो विधेयत्वात् प्रधानम् । शब्दार्थस्तूपसर्जनीभूतस्तत्परत्वाभावाद्वाक्यस्येति ॥

समासोक्तेः प्रभेदं दर्शयन्नाह—

विशेष्यमात्रभिन्नापि तुल्याकारविशेषणा ।
अस्त्यसावपराप्यस्ति भिन्नाभिन्नविशेषणा ॥ २०६ ॥