अहो विशालं भूपाल ! भुवनत्रितयोदरम् ।
माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥ २१७ ॥

भुवनानां स्वर्गादीनां त्रितयं त्रयोऽवयवा अस्येति तस्योदरं मध्यं विशालम् अतिविस्तीर्णम् अहो विस्मयनीयम् ! कथम् ? यत् यस्मात् भूपाल ! तव यशसां राशिः कीर्तिसन्दोहो मातुं परिच्छेतुम् इयत्तया अशक्योऽपि अत्र भुवनत्रितयोदरे माति पर्याप्तः तिष्ठति नातिरिच्यते । तस्मात् अतिप्रकाण्डमिदमिदानीं प्रतीयते सयुक्तिकमेवम् अस्माभिः । लोकस्तु प्रसिद्ध67b मात्रमनुधावति । बहुगुणसंकीर्तनं यशः । तच्च क्वचित् किञ्चित् । यदपि सर्वत्र तदपि न तथा जगत्त्रये माति, यथा [य]त्किञ्चिन्मूर्त्त[व]स्तु क्वचिदवकाशे । तथाप्येवं विशालं यशो विवक्षित्तं यत् तन्मानाद् भुवनोदरं साध्यते इति यशोऽतिशयोक्तिरेवंविधा विदग्धेति ॥