67b मात्रमनुधावति । बहुगुणसंकीर्तनं यशः । तच्च क्वचित् किञ्चित् । यदपि सर्वत्र तदपि न तथा जगत्त्रये माति, यथा [य]त्किञ्चिन्मूर्त्त[व]स्तु क्वचिदवकाशे । तथाप्येवं विशालं यशो विवक्षित्तं यत् तन्मानाद् भुवनोदरं साध्यते इति यशोऽतिशयोक्तिरेवंविधा विदग्धेति ॥

अतिशयोक्तिप्रशं[सा]मुखेन निगमयन्नाह—

अलङ्कारान्तराणामप्याहुरेकं परायणम् ।
वागीशमहितामुक्तिमिमामतिशयाह्वयाम् ॥ २१८ ॥

इमामनन्तरोक्तामुक्तिमतिशय इत्याह्वयः संज्ञा यस्या इत्यतिशयाह्वयामतिशयोक्तिमिति यावत् । वागीशानां कवीनामुत्कर्षयोगात् । महितां पूजितामत्यन्तवल्लभाम् । अलङ्काराणां शेषाणामलङ्काराणामपि न केवलं काव्यस्य धर्मिणः । अतिशये वापिशब्दः । परायणमाश्रयमेकं प्रधानमाहुः कथयन्ति कवयः । तथाहि स्वभावोक्तिरपि विशेषोक्त्यनुगामिनी शोभते या यथावस्थितवस्तुस्वरूपपरिदीपनी । अन्यथा कथञ्चिदपि अतिशयाशंसनेन तन्मात्रकथने निर्जीव[ः/?/] कीदृशः काव्यालङ्कारः ? विशेषलक्षणत्वात्तस्य । किं पुनर्वक्रोक्तयस्तत्तद्विशेषरूपाः उपमारूपकादयः ? तस्मादलङ्काराणामपीयमलंक्रियाऽतिशयोक्तिरिति सूक्तमेतत् अलङ्कारा[न्तरा]णामप्येकं परायणमिति । आदिशब्द१. २१४संगृहीताः अतिशयोक्तिविकल्पाः केचिदुदाह्रियन्ते—