66b कस्यचिद्विवक्षया प्रतिपादनाभिप्रायेण हेतुना लोकस्य जगतः सीमा स्थितिः । तामतिवतितुं लंघयितुं शीलं यस्याः सा लोकसीमातिवर्तिनी । या इत्यनूद्य असौ सा तल्लक्षणा अतिशयोक्तिः स्यादिति विधीयते । विवक्षा या इति पाठे अतिशयस्य लोकसीमातिवर्तिनी या विवक्षा असौ अतिशयाक्तिरिति योजनीयम् । अतिशयस्य यथास्थिताद् वस्तुनः अविकलस्य उत्कर्षस्य प्रतिपादिका इति अतिशयोक्तिः । सा च इयमलङ्काराणामन्येषाम् उत्तमा प्रधाना, अत्यन्तमनोहरत्वात् । यथाहि वस्तुनो मनोज्ञस्य प्रकृत्या ततोऽपि अतिरिक्ता काप्यवस्था प्रतिसंस्क्रियते, सा नितरामनुरागमातनोतीति अलङ्काराधिराजत्वेनैषा अभिषिच्यते कविभिरिति ॥

एवं लक्षणतः प्रदर्श्य अतिशयोक्तिं लक्ष्यतः परिस्फुटयन्नाह—

मल्लिकामालभारिण्यः सर्वाङ्गीणार्द्रचन्द्रनाः ।
क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥ २१३ ॥

मल्लिकानां मालाः स्रजो बिभ्रतीति मल्लिकामालभारिण्यः । इष्टकेत्यादिना ह्रस्वः । अनेनोत्तमाङ्गशौक्ल्यमाहार्यं दर्शयति । सर्वम् अङ्गं व्याप्नोति सर्वाङ्गीणमार्द्रम् अश्यानं चन्दनं यासां तास्तथा । क्षौमवत्यः सितसूक्ष्माम्बरधारिण्यः । एतेन शेषाङ्गश्वैत्यमाहृतम् । अभिसारिका मदनशरताददह्यमानमनसः स्वयमेव कान्तान्तिकम् उपयान्त्यः स्त्रियः । ताश्च दुर्दिनाभिसारिकाः शरदभिसारिका इत्यादयो ह्य[न्य]त्रोक्ताः । इह शरदभिसारिकाः विवक्षिताः । यथाह— ज्योत्स्नायां न लक्ष्यन्त इति । नेपथ्यं च तदनुरूपं दर्शितम् । ज्योत्स्नायां चन्द्रिकायां न लक्ष्यन्ते, न निर्धार्यन्ते, एता अभिसारिकाश्चन्द्रिकेयमिति । एवमतिसान्द्रा चन्द्रिका यतस्तत्र वस्त्वन्तरं तादृशं न विभाव्यत इति । वस्तुतः तथात्वाभावेऽपि विशेषस्तादृशः कल्प्यते । यथा यथावस्थितवस्त्वतिवृत्तिसन्दशितेदृशातिशयालोकवेलाविलङ्घिनी इयमतिमनोहरा जायते तद्विदामिति ॥