70b धर्मान्तरं साधारणम् इहास्ति, विवक्षितं वा । यद् वक्ष्यति न तथा लिम्पतौ लेपादन्यदत्र प्रतीय[ते] इति ॥

कथमिव नास्तीति वैधर्म्यदृष्टान्तेन स्पष्टयन्नाह—

यथेन्दुरिव ते वक्त्रमिति कान्तिः प्रतीयते ।
न तथा लिम्पतौ लेपादन्यदत्र प्रतीयते ॥ २३० ॥

इन्दुरिव ते वक्त्रमिति प्रयोगे कान्तिरुभयोः समो गुणः प्रतीयते दृश्यते यथा तथा तद्वत् । लिम्पतौ लेपनकर्तरि लेपाद्धर्मादन्यत्र । धर्मान्तरं तमस्तुल्यं न प्रतीयते, यत उपमा स्यात् । लेपस्तु लिम्पतावेव वर्तते न तमसीति किमाश्रयेयमुपमा स्यात् ॥

तदेवं प्रमाणसंवाद्याप्तभाषितमतिक्रम्य कैश्चिदिवश्रुतिजनितभ्रान्तिरुपमीकृतेयमुत्प्रेक्षेति निगमयन्नाह—

तदुपश्लेषणार्थोऽयं लिम्पतिर्ध्वान्तकर्तृकः ।
अङ्गकर्मा च पुंसैवमुत्प्रेक्ष्यत इतीष्यताम् ॥ २३१ ॥

यत एवं तत् तस्मादुपश्लेषणं लेपनक्रियारूपमर्थोऽभिधेयम् । ध्वान्तं च तमः कर्तृ अङ्गं च कर्म व्याप्यं यस्य स तादृशो लिम्पतिर्धातुरेवमुक्तेन प्रकारेण वस्तुनो लिम्पदपि तमोऽतिघनत्वात् लिम्पतीवेति उत्प्रेक्ष्यते परिकल्प्यते पुंसा कविना तदर्थस्योत्प्रेक्षितत्वात् । अभेदाव्यवसायेन शब्द उत्प्रेक्ष्यते इत्युक्तम् । ततश्चोत्प्रेक्षैवेयमित्येवमिष्यताम्, नोपमेति । तस्मादितीदमपि भूयिष्ठम् उत्प्रेक्षालक्षणान्वितमिति सिद्धम् । अयमेव न्यायो वर्षतीवाञ्जनं नभ इत्यत्राप्यनुगन्तव्यः ॥