व्यवहारार्थमुत्प्रेक्षासूचकान् शब्दान् दर्शयन्नाह—

मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः ।
उत्प्रेक्षा व्यजते शब्दैरिवशब्दोऽपि तादृशः ॥ २३२ ॥

इत्येवंरूपः शब्दराशिरादिर्येषां तर्कयामि कल्पयामि उत्पश्यामि यथेत्येवमादीनां तैः शब्दैरुत्प्रेक्षा उक्तलक्षणा शब्दान्तरोक्ताप्यव्यक्ता सती व्यज्यते द्योत्यते । इवशब्दोप्युक्तेन विधिना तादृश उत्प्रेक्षाव्यञ्जकः । न केवलमेत इति ॥