147 एवंभूत आधूतचन्द[ना]रण्यः स्पृष्टमलयनिर्भ्करो रम्यो मारुतः अभावस्य दशम्याः दशायाः साधनाय करणार्थम् अलं समर्थः । हिशब्दो वाचोयुक्तौ प्रसिद्धौ वा । कस्मिन् विषये ? मनोज्ञानि रम्याणि रागजनकानि वस्तूनि मलयमारुतादीनि तेषु अरोचकं विद्वेषः । विरहः प्रियजनवियोगो ज्वरः सन्तापरूपत्वात् ततः संभूतं जातं मनोज्ञारोचकं यस्य जनस्य तस्मिन् विषये तस्या