तदुदाहरन्नाह—

ध्रुवं ते चोरिता तन्वि स्मितेक्षणमुखद्युतिः ।
स्नातुमम्भःप्रविष्टायाः कुमुदोत्पलपङ्कजैः ॥ २७२ ॥

तन्वि ! ते स्नातुमम्भ [प्रविष्टायाः] सरःप्रविष्टायाः स्मितं चेक्षणं च मुखं च तेषां द्युतिरित्युद्देशः कुमुदान्युत्पलानि पङ्कजानि च तैश्चोरिता मुषिता कुमुदैः स्मितद्युति-161 रुत्पलैरीक्षणद्युतिः पङ्कजैर्मुखद्युतिश्चोरितेति यथोद्देशमयमनुदेशः । वस्तुतोऽतथाभावाद् ध्रुवमित्युत्प्रेक्ष्यते ।

यद्येवमुत्प्रेक्षेयं कथं यथासंख्यमिति चेत् ? यद्येवं निरूप्यते, उपमाप्यत्र विद्यते, स्मितादीनां कुमुदादिभिः सादृश्यप्रतीतेः । तस्माद्यत्रालङ्कारान्तरमपि प्रतीयते, तत्रापि उद्देशानुरूपानुदेशसंख्यातमेवालङ्कारो व्यवह्रियते । तायैव मुख्यता, विवक्षितत्वात् । यत्र तु अलङ्कारान्तरं न गम्यते तत्र सुतरामेव क्रम इति विज्ञेयम् ॥