तद्विभजन्नाह—

इति साक्षात्कृते देवे राज्ञो यद्रातवर्मणः ।
प्रीतिप्रकाशनं तच्च प्रेय इत्यनुगम्यताम् ॥ २७७ ॥

इतीदृशं यत् प्रीतिप्रकाशनं तत् प्रेयोवचनम् प्रकाश्यतेऽनेनेति कृत्वा रातवर्मणः तन्नाम्नो रघुवंशजन्मनो राज्ञः सम्बन्धि तत्प्रयुक्तत्वात् । देवे शंकरे परमभक्तिसमाराधिते प्रसन्ने किल दत्तदर्शने साक्षात्कृते दृष्टे सति । तेनेत्यर्थाद् गम्यते । तच्च तादृशं वचनमीश्वरविषयं रातवर्मप्रयुक्तं प्रेय इत्येवमनुगम्यतां ज्ञातव्यमिति ॥