प्रेयस्तावदुदाहरन्नाह—

अद्य या मम गोविन्द ! जाता त्वयि गृहागते ।
कालेनैषा भवेत् प्रीतिस्तवैवागमनात् पुनः ॥ २७४ ॥

गोविन्द विष्णो ! त्वयि गृहमिदमस्मदीयमतिधन्यमागते सति या प्रीतिः तुष्टिः अद्य अस्मिन् पुण्याहे मम जाता एषा इयं प्रीतिः कालेन पुनरीदृशेन शुभेन समयेन केनचित् तवैव नान्यस्य । कस्त्वादृशः ? आगमनादुपसंक्रमण77a महोत्सवात्कारणात् भवेत् जायते । त्वदागमनमे[कारण]मस्याः, ज्योत्स्नाया इव चन्द्र इति ॥