एते सप्त विकल्पा मौलाः परस्परसङ्करभाजोऽनेकधा प्रसरन्तीति दर्शयन्नाह—

अत्यन्तबहवस्तेषां भेदाः सम्भेदयोनयः ।
सुकरा दुष्कराश्चैव दृश्यन्ते तत्र केचन ॥ ३ ॥

तेषां सप्तानां 93a विकल्पानां सम्भेदः सङ्करो मिश्रत्वमुच्चावचप्रकारः योनिः प्रभवो येषां ते सम्भेदयोनयः । भेदाः प्रकाराः अत्यन्तबहवो भूयांसो भवन्ति । एकत्र श्लोके क्वचिदादियमकं क्वचिन्मध्ययमकं क्वचिदन्तयमकं क्वचिन्मध्यान्तयमकं क्वचिन्मध्यादियमकं क्वचिदाद्यन्तयमकं क्वचित् सर्वत्र इत्येवमेतेऽनेकधा प्रसरन्ति । ते चैते सुखेन क्रियन्ते प्रयुज्यन्त इति सुकराः, तद्विपरीताश्च दुष्करा इति द्विधा पुनः संगृह्यन्ते । तत्र ते सुकरेषु दुष्करेषु च केचन केचिद् भेदा न सर्वेऽतिप्रसङ्गाद् दृश्यन्ते उदाह्रियन्ते ॥