पादचतुष्टयस्यादिमध्यान्तभाविनो यावन्तः प्रकाराः सम्भवन्ति तान् दर्शयति—

एकद्वित्रिचतुष्पादयमकानां विकल्पनाः ।
आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः ॥ २ ॥

एकपादयमकस्य द्विपादयमकस्य त्रिपादयमकस्य चतुष्पादयमकस्य [च] विकल्पना विकल्पाः प्रभेदाः कथ्यन्ते भवन्तीति वा शेषः । पादस्यैकस्य पादद्वयस्य पादत्रयस्य पादचतुष्टयस्य वा आदितो वा मध्यतो वान्ततो वा । आदौ मध्येऽन्ते वेति त्रयो विकल्पास्तावत् । मध्यतोऽन्ततश्चादिमं वर्जयित्वेति चतुर्थो विकल्पः । मध्यत आदितश्चान्त्यं विहायेति पञ्चमः । आदितोऽन्ततश्च मध्यं त्यक्त्वेति षष्ठः ।203 सर्वत आदौ मध्येऽन्ते चेति सप्तमो विकल्पः । सर्वत इत्यस्यान्ते श्रुतस्य तसः प्रत्येकं सम्बन्धात् । सप्तम्यर्थश्चायम् । तथा च प्रथमं विवृतमादौ मध्येऽन्ते वेति । अन्यत्राप्येवं योज्यम् । यदा च सर्वतो यमकं तदा पादाभ्यासादयो विकल्पा जायन्ते ॥