119a चतुष्टयमध्ये तद् यथाक्रममुदाहरति—

इन्दुपादाः*शिशिरा स्पृशन्तीत्यूनवर्णता ।
सहकारस्य किस*ल*यान्यार्द्राणीत्यधिकाक्षरम् ॥ १५७ ॥

इन्दुपादाः शिशिराः स्पृशन्ति इत्यत्र प्रथमपाद ऊनवर्णता । ऊनो न्यूनो वर्णो यत्र तद्भाव ऊनवर्णतेति कृत्वा । अनुष्टुप्पादो ह्यष्टाक्षरः । अयं तु सप्ताक्षर इति वर्णहानिः । सहकारस्य किसलयान्यार्द्राणी[ति] अत्रापि पूर्वपादे अधिकमक्षर[म]स्मिन्निति अधिकाक्षरम् । अधिकाक्षरमिति भावप्रधानो निर्देशः । यद्वा अधिकाक्षरं पादं रूपं वृत्तमिति वा योज्यम्, अनुष्टुप्पादस्याष्टाक्षरस्य नवाक्षरीकरणादिति ॥

*का*मेन बाणा निशिता विमुक्तामृगेक्षणाष्वित्ययथागुरुत्वम् ।
म*द*नबाणा निशिताः पतन्तिवामेक्षणास्वित्ययथालघुत्वम् ॥ १५८ ॥

अयथा शास्त्रविरुद्धो गुरुर्यस्मिन् तस्य भावः अयथागुरुत्वम् । उपेन्द्रवज्रायां प्रथमलघुविधानात् तदपेक्षयेति द्रष्टव्यम् । उपजात्यपेक्षया त्वदोष इति । मदनेत्यादि । अयथालघुत्वमिति पूर्व[वच्च] व्युत्पत्तिः । उपेन्द्रवज्रायां द्वितीयमक्षरं गुरु विहितमिति । इदं तु लघ्विति तद्विद्याविरोधादयथालघुत्वमिति ॥