आहुरर्धभ्रमं नाम श्लोकार्धभ्रमणं यदि ।
तदिष्टं सर्वतोभद्रं भ्रमणं यदि सर्वतः ॥ ८० ॥

औत्तराधर्येण चतुर्षु पादेष्वभिव्यक्त्यर्थं लिखितेषु प्रथममक्षरमारभ्य औत्तराधर्येण द्विराद्यन्ततः क्रमेण पाठे अर्ध निष्पद्यते, पुनस्तथैव परिशिष्टस्य पाठे अपरार्धनिष्पत्तिरिति श्लोकस्य द्वाभ्यां भ्रमणं श्लोकार्धभ्रमणं यदि भवेत् तादृशमर्धभ्रमं नाम दुष्करमाहुरामनन्ति तद्विदः ।

सर्वतोऽनुलोमप्रतिलोमतः पूर्ववदौत्तराधर्येण च यदि भ्रमणं श्लोकस्य भवेत् तादृशं सर्वतोभद्रं नाम दुष्करमिष्टं तज्ज्ञैरिति ॥