107a रेफगकारककारमकारमात्रप्रयोगात् चतुर्वर्णोऽयं श्लोक इति ॥

देवानां नन्दनो देवो नोदनो वेदनिन्दिनः ।
दिवं दुदाव नादेन दाने दानवनन्दिनः ॥ ९३ ॥

देवानां नन्दनः प्रीतिकरः तद्योगक्षेमाचरणपरत्वात् । वेदनिन्दिनः धर्माधिक्षेपकस्य लोकस्य नोदनो निषेद्धा [त्रयी]प्रवर्तनात् । देवो विष्णुः । तस्यैव तादृशत्वात्, वक्ष्यमाणविशेषयोगाच्च । दानवानसुरान् नन्दयति वर्धयति तद्योगक्षेमाचरणादिति दानवनन्दिनोऽसुरेश्वरस्य हिरण्यकशिपोः, अन्यस्य वा कैटभादेः दानेऽवखण्डने विदारणे नादेन दर्पोन्मुक्तेन सिंहनादेन [स्तम्भ]भङ्गसम्भवेन वा नादेन शब्देन तुमुलेन हेतुना दिवं स्वर्गलोकं दुदाव । किमिदमित्युपजातशङ्कमकरोदित्यर्थः । दकारवकारनकारमात्रात्मत्वात् त्रिवर्णोऽयं श्लोकः ॥

सूरिः सुरासुरासारिसारः सारसिसारसाः ।
ससार सरसीः सीरी ससूरूः स सुरारसी ॥ ९४ ॥