मदनो मदिराक्षीणामपाङ्गास्त्रो जयेदयम् ।
मदेनो यदि तत् क्षीणमनङ्गायाञ्जलिं ददे ॥ ७९ ॥

मदिराक्षीणां स्त्रीणाम् । अपाङ्गं कटाक्ष एवास्त्रमायुधं रागसाधनत्वाद् यस्येति अपाङ्गास्त्रः देवदत्तस्य गुरुकुलमिति यथा । मदनः कामः । अयं लोकविख्यातः ।232 जयेद् जगद्वशीकुर्यात् । न क्वचित्प्रतिहतशक्तिर्य[दि] यस्मात् इष्टविषयप्रापणात् । मम एनः पापम् अर्थात् तत्प्राप्तिविघ्नभूतम् । क्षीणम् अस्तंगतम् ततः पूर्णमनोरथत्वात् अहमनङ्गाय तस्मै कृपाद्यपपत्तये । तादर्थ्ये क्रियासम्बन्धे वा चतुर्थी । अञ्जलिं प्रणामकरसम्पुटं दधेः रचयामि तमाराधयामीति कश्चित् कामी [काचित्] कामिनी वा ब्रवीति ॥