123a .......सुभगो युवा तरुण इ[व] । यथायं रमते प्रीत्युत्मवं निर्विशति, लभते च कीर्तिं सुभग इति ख्यातिं तथा [व्युत्पन्न]बुद्धिरयमित्युपनेयम् ॥

इति गदितुमवस्थां का[म]पि श्लाघ्यरूपा-मुपचितगुणता[यां] मत्सरं न श्रियै वः ।
कनकमयमिवेदं दीप्त[भास्वत्स]वणश्रवणसुभगमी[ड्यं] दण्डिनः काव्यलक्ष्म ॥
कृशतरगुणपूर्णं कालमालोकयद्भि-र्गुरुरिव गुणलेशोऽप्यद्य संभावनीयः ।
जगति विगतमेघे क्षारवारिप्रबन्धेलव इव सलिलस्य स्वादरो दृश्यमानः ।
गुणलवमपि सन्तो गुह्णते तेन तेषा-मतिविपुलगुणत्वं तन्न चित्रीयते नः ।
गुरुमपि गुणराशिं दुर्जना विद्विषन्तःकथमपि गुणभावं तन्वते चित्रमेतत् ॥
चिरंतनो वा कविर[द्य] वा स्फुटंगुणोत्तरं वाक्यमुपास्यते बुधैः ।
तरोः पुराणस्य नवस्य वा फलंनिरस्तशङ्कं मधुरं निषेव्यते ॥
भवति सुगममेव ग्राम्यमप्यर्थजातंपरिणतपदबन्धैः स्पृश्यमानं कवीनाम् ।
अविकलरसबन्धैस्तद्विदा बध्यमानंविमलकनकसंख्यां याति यत्किञ्चिदेव ॥