252 छन्दोविचितिविद्यारूढं वृत्तं पद्यं जातेरपि विरोधसम्भवात् यस्मिन्निति भिन्नवृत्तम् । विगतः सन्धिः शब्दशास्त्रप्रसिद्धो यणादेशादिर्यस्मिन्नितिं विसन्धिकम् ॥

देशः पर्वतादिः । कालो दिवसादिः । कला नृत्यगीतादिविद्याः । लोकश्च सत्त्वलोको भाजनलोको वा चित्रप्रचारः । न्यायश्चान्वीक्षिकी । आगमश्च वेदादिः । देशकालकलालोकन्यायागमाः । तैर्विरोधो बाधा विद्यतेऽस्मिन्निति देशकालकलालोकन्यायागमविरोधि च तत्तद्व्यवस्थातिक्रमात् । विरोधीत्येतद्देशादिभिः प्रत्येकं सम्बन्धनीयम् । चकार उक्तसमुच्चये । इत्येते अनन्तरोद्दिष्टा दशैव । अन्यूनानतिरिक्ता दोषा गुणविपक्षत्वाद् वर्ज्याः शास्त्रचक्षुषा दृष्ट्वा परिहर्तव्याः । सूरिभिः प्रतिपत्तृभिः । कुत्र ? काव्येषु पूर्वोक्तरूपेषु । काव्यविशेषदोषाणामपि क्वचित् केषाञ्चित् प्रतिनियमात् । तत्सम्भवित्वात् काव्यदोषास्ते, यथा हेतुसम्भ[वि]नो