114a एषां यथोद्देशं सनिर्देशं सापवादं [विवरणं] कर्तुं प्रक्रमते—

समुदायार्थशून्यं यत् तदपार्थमितीष्यते ।
तन्मत्तोन्मत्तबालानामुक्तेरन्यत्र दुष्यति ॥ १२८ ॥

142समुदायस्य प्रकरणात् पदसम्बन्धिनो वाक्यस्य अर्थोऽभिधेयम् अङ्गाङ्गिभूतक्रियाकारकसम्बन्धविशेषलक्षणं सांव्यवहारिकम् । तेन शून्यं रहितम् । न पदार्थ

  1. समुदायार्थ इत्यारभ्य श्लोकत्रितयटाकायां मातृकास्थक्रमः असंलग्न इति कृत्वा अर्थपर्यालोचनेन शोभनतरः क्रमः स्वीकृतः ॥