पूर्वोक्तं प्रथमं प्रयुक्तं शब्दार्थरूपं किञ्चित् भूयः पुनरपि यदि कथञ्चित् प्रमादात् कीर्त्यते प्रयुज्यते । कथम् ? अविशेषेण पूर्वोक्तमप्यर्थविशेषमनपेक्ष्य तावत्येवार्थे । यदि तु विशेषापेक्षा स्यात्, तदा नैकार्थमिति भावः । तदीदृशमेकार्थम् । अतः एकः पूर्वापरकालभाव्यर्थः अविशिष्टः अस्मिन्निति कृत्वा । कथम् ? अर्थतः अभिधेयेन पूर्वप्रतिपादितस्यैवार्थस्य अविशेषेण पुनः प्रतिपादनात् । शब्दतो वाचकेन वा हेतुना तावत्येव चार्थे पुनः शब्दप्रयोगात् । न पुनरर्थपौनरुक्त्यमनपेक्ष्य शब्दपौनरुक्त्यं स्वतन्त्रं दर्शयितुं शक्यम्, अर्थ[तो भिन्नस्य] एव शब्दस्य यमकादौ अपुनरुक्तेः । यत्र त्वर्थाभेदः तत्र तद्द्वारकं शब्दपौनरुक्त्यम् । अपीत्युभयथा दर्शितम् । यथेत्युदाहरति ॥
अविशेषेण पूर्वोक्तं यदि भूयोऽपि कीर्त्यते ।
अर्थतः शब्दतो वापि तदेकार्थं मतं यथा ॥ १३५ ॥