तदुदाहरति—
हन्यते सा वरारोहा स्मरेणाकाण्डवैरिणा ।
हन्यते चारुसर्वाङ्गी हन्यते मञ्जुभाषिणी ॥ १३८ ॥
सा काचिदिष्टा वरारोह स्त्री मुख्या हन्यते पीड्यते । चारु सर्वमङ्गमस्या इति चारुसर्वाङ्गी । हन्यते मञ्जुभाषिणी मधुरालापिनी हन्यते स्मरेण कामेन अकाण्डवैरिणा निर्निमित्तशत्रुणेति । ईदृशं पुनरुक्तमपि काव्यभूषणमवस्थाविशेषयोगात् । आह च—259
144
इति ॥विस्मये च विषादे च कोपे दैन्ये च वारणे ।
प्रसादे चैव हर्षे च पदमेकं द्विरुच्यते ॥
- [ ↩