116a एवमामन्त्र्यते । अत एव अत्रापि संशयः, कतमोऽर्थोऽत्राभिप्रेत इत्यनिश्चयात् । यदि नामैवम्, ततः किंमित्याह—आरादिति । ईदृशमेवंविधं तव स्वातन्त्र्यं मनोरथप्रियालोकरसलोलत्वम् । असौ तव माता आराद् वृत्तिरस्या इत्याराद्वृत्तिः । द्रष्टुं न क्षमा । अत्राप्याराच्छब्दस्य दूरान्तिकवृत्तित्वात्, असावित्यस्य च परोक्षापरोक्षयोर्वृत्तेः संशय्यते । किमसौ माता दूरवृत्तिरीदृशं द्रष्टुं न क्षमा न शक्नोति परोक्षत्वात्, किं वा असौ इयं माता आराद्वृत्तिरासन्नवर्तिनी ईदृशं द्रष्टुं न क्षमा न सहते । ईदृशं दृष्ट्वा सुतरां कुप्यतीति