अन्यः शब्दे ग्राम्यताप्रकारोऽस्ति, सोऽपि वर्जनीय इति व्युत्पादयन्नाह—
पदयोः सन्धानं सङ्गतिरानन्तर्यं तस्य वृत्त्या स्थित्या । वेति समुच्चये । वाक्यस्य पदसमुदायस्यास[त्त्यादियुक्त]25b स्यार्थः क्रियाकारकविशेषलक्षणममिधेयं तद्भावः । स एव वाक्यार्थत्वं तेन वा तेन च हेतुना पुनरपरमेतत् । न केवलं पूर्वकं नैकैकपदार्थनिरूपणेन किं तु वाक्यार्थस्य विभावनेनेत्यर्थः । दुष्टामसभ्यां शब्दतः न तु वस्तुतः, तस्यैव वस्तुनः शब्दान्तरेणादुष्टत्वात् प्रतीतिमवगमं करोतीति दुष्प्रतीतिकरं वाक्यं ततश्च ग्राम्यमसभ्यं विद्यते । यथेत्युदाहरणेन स्पष्ट्यति । या इत्यस्य पदस्य भवत इत्यनेन पदेन सन्धाने सति ग्राम्यं प्रतीयते । या तव प्रियेति पदान्तरसन्धाने निवर्तते । तदीदृशं पदसन्धानं ग्राम्यं बुद्ध्या परिहरणीयमिति ॥