25b स्यार्थः क्रियाकारकविशेषलक्षणममिधेयं तद्भावः । स एव वाक्यार्थत्वं तेन वा तेन च हेतुना पुनरपरमेतत् । न केवलं पूर्वकं नैकैकपदार्थनिरूपणेन किं तु वाक्यार्थस्य विभावनेनेत्यर्थः । दुष्टामसभ्यां शब्दतः न तु वस्तुतः, तस्यैव वस्तुनः शब्दान्तरेणादुष्टत्वात् प्रतीतिमवगमं करोतीति दुष्प्रतीतिकरं वाक्यं ततश्च ग्राम्यमसभ्यं विद्यते । यथेत्युदाहरणेन स्पष्ट्यति । या इत्यस्य पदस्य भवत इत्यनेन पदेन सन्धाने सति ग्राम्यं प्रतीयते । या तव प्रियेति पदान्तरसन्धाने निवर्तते । तदीदृशं पदसन्धानं ग्राम्यं बुद्ध्या परिहरणीयमिति ॥

वाक्यार्थग्राम्यमुपहरति—

परं प्रहृत्य विश्रान्तः पुरुषो वीर्यवानिति ।
एवमादि न शंसन्ति मार्गयोरुभयोरपि ॥ ६७ ॥