* * * *
4a दोषविभागतो यथावद ..........मल्लनागो ........ वस्थितिलक्षणत्वाच्च लोकयात्राया2 इति । विशिष्टा लोकयात्रा [अ]भिप्रेता न तु या काचित् । सा [वाक्शास्त्ररूपे]ति तदभावे यथोक्तलोकयात्रानुपपत्तेश्च अन्यत्रापि यथासम्भवं सामान्यशब्दात् विशेषः प्रसत्तव्यः । प्रसादेन प्रभावान्न..........। अतएव चतुर्वर्गशासनात् शास्त्रा[णां] चतुर्वर्गविद्याश्रयत्वात् विद्याश्रयस्थानानीति च निरुच्यते । तानि च [श्रुति]स्मृत्यादीनि संस्कृतमयानीत्याह [शिष्टानुशिष्टानामिति । शिष्टाः] [शब्दा]नुशासनकृतः पाणिनिप्रभृतयः । तैरनुशिष्टाः संस्कृताः प्रकृतिप्रत्ययादिविभागकल्पनयाऽन्वा[ख्याताः] तासां वाचां, श्रुतिस्मूत्यादीनि हि चतु[र्वर्गसाधनानि] [सं]स्कृतमयानि दृश्यन्ते ।
ननु भाषान्तरैरपि चतुर्वर्गप्रतीतिलक्षणा लोकयात्रा प्रवर्तमाना दृ[श्यमाना]स्ति । तदपि श्रुत्यादिमूलमित्यतिदिशन्नाह- शिष्टा[नाम]पीति । शिष्टानुशिष्टेभ्यो बाह्याः शिष्टाः परिशिष्टाः । उपयुक्तादन्यः शेष इति । तासां [परिशिष्टानां शास्त्रव्यवहार]स्थित्या अपभ्रंशसंगृहीतानाम् । यद् वक्ष्यति—शास्त्रेषु संस्कृतादन्यदपभ्रंशतयोदितम् । इति । 3 एवं मन्यते...[इ]दमत्र तावत् तात्प[र्यम्]........[लो]कयात्रा शास्त्रप्रभावादेवेति । तत्तु शास्त्रं संस्कृतमयं वा । भाषान्तरस्वभावं प्रायस्तु संस्कृतमयं दृश्यत इति । अत एवाह- शि[ष्टानुशिष्टानां.........एवं शास्त्रादेव सा । संस्कृतेतरलक्षणस्तु तद्विकल्प एव । अतः सर्वथा सर्वप्रकारेण एकान्तेन संस्कृतादवशिष्टाद् वा शास्त्रादेव लोक[यात्रा प्रवर्तते ।] काव्यं चेदं चतुर्वर्गलक्षणम् । अत्रापि गुणदोषविवेचने शास्त्रं शरणमित्याकूतम् । वक्ष्यति च—गुणदोषानशास्त्रज्ञः 4 3 इत्यादिना । यत् पुनर[त्र........का]रणमन्यद् वा यथा कथञ्चिद् घुणाक्षरप्रख्यं दृश्यते तत्रापि शास्त्रमस्तीति तद्विदां प्रयोगपथानुसारात् स्यात् । जन्मान्तरे वा कृतशास्त्राभ्या[सप्रति (4b) बु]द्धसंस्काराणां परिनिष्ठितमपि स्यात् । यान् सारस्वताननधीतपण्डितान् वा व्यवहरति लोकः । यदपि सरस्वतीप्रसादात् काव्यकरणादिकमिष्टम्, तदपि शास्त्रप्र[भाव]........प्रभावितत्वात् । किं बहुना ? सर्वलोकयात्रा चतुर्वर्गव्युत्पत्तिलक्षणा शास्त्रादेव । तस्मादिदमपि काव्यगुणदोषव्युत्पत्त्यर्थं करणीयमेव, यतः परिनि[ष्ठितं काव्यं जाय]त इति भावः ॥