अर्थव्यक्तिं व्याख्यातुमाह—
अर्थस्य काव्याभिधेयवस्तुनो नेयत्वं शब्दतोऽर्थतो वाप्रतीतिरन्यथावगमः स्यात् । गत्यन्तराभावात् । यद्वक्ष्यति—न हि प्रतीतिः सुलभा शब्दन्यायविलंघिनी । इति ।62
नेयत्वभेदमनूद्यार्थव्यक्तिर्विधीयते । तदुदाहरति । हरीत्यादि, हरिणा वराहरूपधारिणा विष्णुना पृथिवी भूरुद्धृता समुत्तारिता उदधेः समुद्रात् । किंविशिष्टात् । खुरैर्महावराहस्येत्यर्थाद्गम्यते । चरणाग्रैः क्षुण्णानां चूणितानां नागानामुरगाणामसृजा रुधिरेण लोहितादरुणात् 27b इतीदृशमनेयं काव्यम् । अत्र हि नागशोणितं शब्दोपात्तं यदुपाधिकमरुणत्वमर्णवस्य । न्यायोपात्तं तु ।
अत्र यद्यपि नागरुधिरमशब्दोपात्तं यदुपाधिकलोहितत्वमुदधेः, तथापि खुरक्षुण्णमहोरगकुलाकुलादर्णवादरुणादित्युक्तेः सामर्थ्यात् स्फुटं नागरुधिरं गम्यते । 46 तथाविधस्योदधेर्नागरुधिराव्यभिचारात् । न हि सर्वत्र शाब्दी प्रतीतिः काव्ये, अर्थे अपि तस्या दर्शनात् । यदाह कालिदासः—
अत्र हि तेन राज्ञा बाणैरसुराः समरे हता इत्यर्थो विवक्षितः कविना । न चासुरवधः शब्दोपात्तः । तथापि असुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाश्चकार बाणैरित्युक्ते सामान्यादसुरा हता इति न्यायोपात्तोऽसुरवधस्तादृशस्य पत्रलेखाप्रवासस्यासुरवधाव्यभिचारात् । न चेदृशं नेयत्वम्, प्रत्युत वक्रोक्तिरीदृशी गुण एव काव्यस्य । ततः शब्देन न्यायेन वाचिना यत्रार्थो नेतव्यस्तादृशं नेयं विज्ञेयमन्यथा तथाविधं काव्यं सर्वं दुष्येदिति ॥