27b इतीदृशमनेयं काव्यम् । अत्र हि नागशोणितं शब्दोपात्तं यदुपाधिकमरुणत्वमर्णवस्य । न्यायोपात्तं तु ।

उज्जहार खुरक्षुण्णमहोरगकुलाकुलात् ।
महावराहः पृथिवीमरुणादर्णवात् क्षणमिति ॥

अत्र यद्यपि नागरुधिरमशब्दोपात्तं यदुपाधिकलोहितत्वमुदधेः, तथापि खुरक्षुण्णमहोरगकुलाकुलादर्णवादरुणादित्युक्तेः सामर्थ्यात् स्फुटं नागरुधिरं गम्यते ।