48 तदुदाहरन्नाह—

अर्थिनां कृपणा दृष्टिः स्त्वन्मुखे पतिता सकृत् ।
तदवस्था पुनर्देव नान्यस्य मुखमीक्षते ॥ ७७ ॥

अर्थिनां याचकानां दृष्टिश्चक्षुः कृपणा दीना निरानन्ददौर्गत्योपहतत्वात् याच्ञामरणावस्थाप्राप्तत्वाच्च त्वन्मुखे वदने सकृदेकवारं पतिता प्रवृत्ता सती तदवस्था सा