पौरस्त्यानामोजःपद्यविषयमुदाहरन्नाह—
50 वारुणी पश्चिमा दिक । भातीति गम्यते । किभूता ? अस्तस्य पर्वतस्य मस्तके शिरसि शिखरे पर्यस्तः पतितः समस्तो निरवशेषः, दिनपरिणतेः तत्र संहारात् । अर्कस्यादित्यस्यांशूनां रश्मीनां संस्तरः सन्तानो यस्यामिति समासबाहुल्यं सामान्येन दर्शितम् । विशे[षेणा]तिप्रसङ्गात् । एवंविधा कथमिव भातीत्याह—पीनेत्यादि । पीने महति स्तने पयोधरे स्थितं सक्तम् आताम्रं लोहितं कम्रं कान्तं वस्त्रं वसनं यस्यास्तथेति भाति । इह लोहितत्वं शब्दोपात्तमाताम्रशब्दप्रयोगात् । पूर्वं तु न्यायोपात्तम्, अस्तपर्वतपतितानामादित्यरश्मीनां लोहितत्वाव्यभिचारात् । न चेदृशी नेयं यथोक्तं प्राक् । अत एवोक्तम्—न हि प्रतीतिः सुलभा शब्दन्यायविलङ्घिनी ।65 अस्तपर्वतः स्तनसदृशो वारुण्याः । अर्कांशुसंस्तर[स्तत्र] पतितः ताम्रवस्त्रतुल्य इति द्रष्ट30b व्यम् ॥
- १. ७५↩