तदुदाहरति—

पद्मान्यकांशुनिष्ठ्यूताः पीत्वा पावकविप्रुषः ।
भूयो वमन्तीव मुखैरुद्गीर्णारुणरेणुभिः ॥ ९६ ॥

पावकविप्रुषः तेजःकणिकाः अर्कांशुभिरादित्यकिरणैर्निष्ठ्यूता निरस्ताः पीत्वा भूयोऽत्यर्थम् । अतश्च वमन्तीव उद्गिरन्तीव पद्मानीत्युत्प्रेक्षते मुखैरुद्गीर्णा मुक्ताः अरुणा लोहिताः रेणवः परागा यैरिति विग्रहः । उत्प्रेक्षाबीजमनेन सूचितम् । सूर्योदये हि विकसन्ति पद्मानि तेजःकणान् पिवन्तीव लक्ष्यन्ते रक्तान्परागान्मुञ्चन्ति च पीतानग्निकणान् वमन्तीव दृश्यन्ते । निष्ठीवनादिकं हि सचेतनकर्तृकं श्लेष्मादिकर्मकम् । मुख्यकाव्ये च तादृशमनुचितम् । इह त्वर्कांशुपद्ममुखकर्तृकं तेजो रेणुकर्मकं प्रयुक्तमिति अतिसुन्दरम् । सचेतनकर्मकमपि यदि गौणकर्तृकं प्रयुज्येत तदा न ग्रास्यम् । यथा—निष्ठ्यतमिति 34a नाम भाषसे हृदयगतां मुदमुद्निरन्निति ॥