57 तदेवं प्रस्फुटान्तरत्वं मार्गयोर्यथाप्रतिज्ञातं प्रसाध्य निगमयन्नाह—

इति मार्गद्वयं भिन्नं तत्स्वरूपनिरूपणात् ।
तद्भेदास्तु न शक्यन्ते वक्तुं प्रतिकवि स्थिताः ॥ १०१ ॥

इति यथोक्तेन प्रकारेण मार्गद्वयं वैदर्भो गौडीयश्च मार्गः भिन्नं प्रस्फुटान्तरम । कुतः ? तस्य मार्गद्वयस्य स्वरूपम् अविपरीतस्वभावः, श्लेषादिस्वरूपं विदर्भमार्गस्य तद्विपर्ययस्वरूपं गौडीयस्य । तस्य निरूपणात् विवेचनात् यथाविहिताद् हेतोः । यदि मार्गद्वयं विविच्यते यथावत् ततो लभ्यते परिस्फुटमन्तरम् । ये तु न विजानन्ति तैरेकीकृतमेतत् । ततश्चाभेदोऽत्र समारोपितः । भेदस्तु वास्तव इत्याकूतम् । यथोक्तं प्राक् । कियन्तस्तर्हि प्रभेदा वैदर्भमार्गस्य कियन्तो वा