35a गौडीयस्य यतः परिस्फुटमन्तरं भेदसामान्यप्रविशेषमिदं तदिति गम्यत इत्याह—तद्भेदास्त्वित्यादि । तुशब्दोऽर्थान्तरविवक्षायाम् । तस्य मार्गद्वयस्य भेदा अवान्तराः प्रकाराः । यथोक्तसामान्यलक्षणन्यस्ता अनन्ताः गवाश्वप्रभेदवत्, किमाश्रयाः ? प्रतिकवि स्थिताः कविं कविं प्रति प्रतिकवि । ये केचिदिह कवयः सम्भवन्ति मार्गद्वयानुसारिणस्ते तदाश्रया इतस्ततो व्यवस्थिताः । न तु क्वचिदेकत्र परिसंख्यातास्तिष्ठन्ति । तस्मात् वक्तुं साकल्येन विवरीतुं न शक्यन्ते आनन्त्यादिति भावः ॥

यदि तावत्सन्ति किं न वक्तुं शक्यन्ते ? वक्तुमशक्यास्तु न सन्त्येव ते । ततश्च यथोक्तमपि भेदसामान्यमसदिव ।

निर्विशेषं च सामान्यं भवेच्छशविषाणवत् । इत्येव शङ्कानैकान्तिकमेतत् । सतोऽपि कथञ्चिद् वक्तुमशक्यस्य दर्शनादिति प्रतिपादयन्नाह—

इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
तथापि न तदाख्यातुं सरस्वत्यापि शक्यते ॥ १०२ ॥

इक्षुक्षीरगुडद्राक्षादीनां मधुरद्रव्याणां माधुर्यस्य सामान्यधर्मस्य प्रतिद्रव्यं विशेषात्मना अन्तरं भेदो महत् परिस्फुटम् । तथापि तदन्तरं सरस्वत्यापि वागधिदेवतयापि आख्यातुं वक्तुं विभागेनास्येदृशं माधुर्यमस्येदृशमिति न शक्यते । प्रागेवान्येन । केवलमनुभवगम्यं तत् । सामान्यशब्देन मधुरमिति तु व्यपदिश्यते । यद्यपीक्षो