6 वैदर्भमार्गापेक्षया वक्ष्यमाणाः । अत एव सामान्येनाह—गुणदोषानशास्त्रज्ञः कथं विभजते जनःइति । सर्वमपि सा[मान्यं ए]कस्याप्यर्थस्य प्रकृतापेक्षया विशेषनिष्ठं भविष्यतीति निपुणेयं वाचोयुक्तिः । तान् गुणदोषान् यो न वेत्ति पुरुषः[स] कथं विभजते [विभक्तान्करो]ति एते गुणाः [एते दोषा इ]ति । य[तो गुणानाद]त्ते दोषान हास्यति कथञ्चित् । किं न विभजते, अशास्त्रज्ञो यतः । शास्त्रादेव हि गुणदोषा विवेच्यन्ते । यश्च शास्त्रं गुणदोषविवेक[विष]