द्वितीयं क्रममाह, यो भामहेन द्विष्टः—
15 रिपो[र्नायकवि]पक्षस्यापि न केवलं प्रतिपक्षस्य वंशोऽन्वयः वीर्य विक्रमः श्रतं शास्त्रकौशलं आदिर्येषां त्यागसत्यक्षान्त्यादीनां तानि गुणवस्तूनि वर्णयित्वा प्रकाश्य [तस्य] वर्णितवंशादेर्विपक्षस्य जयाद् अभिभवात् कारणात् प्रतिपक्षेण, नायकस्य प्रतिपक्षस्य उत्कर्षो विशेषः तस्य कथनमभिधानं यत्, तच्च नोऽस्मान् धिनोति प्रीण्यति । चकारात् पूर्वकं च । अयमपि क्रमोऽस्माकं प्रिय एवेत्यर्थः ।
अयमभिप्रायः—काव्यं हि वक्रोक्तिप्रधानम् । अयं च क्रमः वक्रोक्तिस्वभावः, यद्विपक्षवर्णनद्वारेण प्रतिपक्षोत्कर्षकथनम् । एवं नामायमुक्तृष्टः, यदेवंगुणोऽपि विपक्षो[ऽनेन] निर्जित इति । अन्यश्च वर्णितोऽन्यस्योत्कर्षः ख्याप्यत इति चतुरोऽयं [न]यः ।तस्मादयमस्मान् धिनोतीति । काव्येषु हि द्वावपि वर्ण्येते केवलं पौर्वापर्ययोर्विवादः । अत्र हि प्रतिपक्षोत्कर्षो विधेयः । स चोभयथाऽपि गम्यत एव । हयग्रीववधादौ चायं [प्र]10a कारो दृश्यते ऋजुनैव क्रमेण । प्रतिपक्षोत्कर्षः किं न कथ्यते वक्रोक्त्या किं न ख्याप्यते वक्रीक्तिप्रधानत्वात् काव्यस्येति चेत् । यत्किञ्चिदेतत् । 20अशोकवनिकाचोद्यमिदम् ।
यदुच्यते काव्यशरीराव्यापकत्वात्, अनभ्युदयभागित्वाच्च विपक्षस्य प्रागुन्यासवर्णने विफल इति । तदसत् । कथं प्रतिपक्षोत्कर्षख्यापनपरं विपक्षवर्णनं प्राक्क्रियमाणं विफलं ना[म] । एवं हि प्राक्प्रतिपक्षनायकवर्णनम्, तेन च विपक्षनायकनिराकरणमितीदमपि प्रतिपक्षोत्कर्षार्थं क्रियमाणं विफलं स्यात् । अथ प्रतिपक्षोत्कर्षकथनार्थत्वात् ननु21 चैतत् प्रतिप[क्ष]वर्णनमपि प्रतिपक्षोत्कर्षख्यापनार्थत्वात् न मुघेति न कश्चिद् विशेषोऽन्यत्राभिनिवेशात् । तस्मात् काव्यशरीराव्याप्त्यनभ्युदयभागिनोऽपि विपक्षस्य प्राक् ग्रह[ण]स्तवौ न मुधैव, प्रतिपक्षोत्कर्षख्यापनार्थत्वात्, प्रतिपक्षवर्णनादिवदिति द्वयमपि साधु दृश्यतामिति ॥