22 कथं तर्हि आख्यायिकेति व्यपदिश्यते इति चेत् । अत एवं संज्ञाद्वयाङ्किता एका जातिरित्युक्तम् । जातिभेदोऽत्र निषिध्यते, न संज्ञाभेदः । एवं कथाविशेषः आख्यायिका स्यात्, न जातिभेदः । यथा कथाविशेषाणां संज्ञाभेदा यथेष्टम् । न च भाषाभेद—मात्राद्विजातीयत्वम् । कथानामपि परस्परविजातीयत्वप्रसङ्गात् एतावन्तः स्यात् । काचित् कथा संस्कृतमयी । काचित् प्राकृतमयी । काचित् अपभ्रंशस्वभावा । काचित् भूतभाषामयी । काचित् मिश्रेति । यथा वाचां भाषाभेदेऽपि न कथात्वं हीयते गद्यमयत्वात्, प्रसङ्गे तु पद्यप्रवेशः, तथा संस्कृतमय्या आख्यायिकायाः कथात्वं न विरुद्धयते । अत एवोक्तम् । एका जातिः कथाजातिरेव यथेष्टं संज्ञा अनुभवति, यथा मनुष्यजातिरेका क्षत्रिय जातिसंज्ञाम् । भाषान्तरमयीनामपि कथानां गद्येनार्थोपक्षेपः लम्भादिपरिच्छेदादौ न दूष्यते निषेधाभावात् । भामहेन निषिद्धमिति चेत् । दण्डिना विहितमिति किं न प्रत्येषि । तस्मात् काचित् कथा [आश्वासादौ] गद्याक्षिप्तार्था, काचिन्न । [न]ह्येतावता आख्यायिका कथात्वं नानुभवति । कथा वाऽऽख्यायिका