अपभ्रंशः कतम इत्याह—
आभीरादिगिरः काव्येष्वपभ्रंश इति स्मृताः ।
शास्त्रे तु संस्कृतादन्यदपभ्रंशतयोदितम् ॥ ३६ ॥
आभीरा वाहिकाः । आदिशब्देन ढक्कादिपरिग्रहः । तेषां गिरो भाषा अपभ्रंश इति, अपभ्रंशनाम्ना व्यपदिश्यन्त इति स्थितिर्व्यवस्था । कुत्रेत्याह—काव्येषु गद्यपद्यमिश्रात्मकेषु कविप्रयोगेषु । अपभ्रंशोऽपि प्राकृतवच्चतुर्धा स्मर्यते । यदुक्तम्—
शब्दभवं शब्दसमं देशीयं सर्वशब्दसामान्यम् ।
प्राकृतवदपभ्रंशं जानीहि चतुर्विधमाहितम् ॥ इति
त्रिधाप्याम्नायते । यथोक्तम्—अपरं त्रिप्रकारत्वं शास्त्रस्थित्या प्राकृतमपभ्रंशः पैशाचिकं चेति ॥