इदानीमलङ्कारं तस्य निर्दिदिक्षुः प्रस्थानं रचयन्नाह—
गिरां काव्यानां मार्गो रचनाप्रकारः, अनेको भिन्नो विजातीयः उदीच्यादिदिग्देशभेदेन अस्ति प्रवर्त्तते । किमेकान्तविसदृशोऽसौ, नेत्याह—सूक्ष्मभेदः परस्परमिति । परस्परमन्यो यम् सूक्ष्मः स्वल्पः भेदोऽन्तरं यस्य स तथा । विजातीयत्वेऽपि सदृशोऽस्ति मार्गः, गोगवयादिवदित्युत्सर्गः । तस्यापवादमाह—तत्रेत्यादि । तत्र तस्मिन्ननेकस्मिन् मार्गे वैदर्भगौडीयौ प्रस्फुटान्तरौ । विदर्भा दाक्षिणात्याः, एकदेशेन समुदायोपलक्षणत्वात् । तेषामयं वैदर्भः । गौडाः पौरस्त्याः तेषामयं गौडीयः । तौ मार्गौ प्रस्फुटौ । महदन्तरं भेदोऽनयोरिति प्रस्फुटान्तरौ । विजातीयत्वेऽपि शेषो मार्गो वैदर्भेण सदृशः, गवेव गवयः । गौडीयस्तु विसदृशः । गवेव करभः । व्यक्तिभेदस्त्वेकैकस्यामप्यनन्तः प्रतिकविस्थितः स इह न विवक्षितः । तद् वक्ष्यति—तद्भेदास्तु न शक्यन्ते वक्तुं प्रतिकविस्थिताः । इति ।40
यदि नामैवं ततः किमित्याह—ततश्च तावेव वर्ण्येते विभज्येते । प्रस्फुटान्तरयोः सुविभजत्वात् । शेषस्तु वैदर्भप्रायत्वात् पृथग् नोच्यते ।
17a एवं च कृत्वा यदुक्तं भामहेन—
28
अथ मतं कथं तर्हि पौरस्त्येषु वैदर्भो दृश्यते पद्यसाधारणो यथा दाक्षिणात्यानामेव । दाक्षिणात्येषु वा गौडीय इति । तत्किमेतावता तेषामसौ निजः स्यात् । तेष्वसौ दृश्यमानोऽपि न निजः दक्षिणमार्गवत्, यथा दाक्षिणात्यानाम् । नहि चन्दनं देशान्तरे दृश्यत इति तज्जमेव स्यात् । देशान्तरदृष्टमपि हि मलयजमेव तत् । तथा वैदर्भः पौरस्त्येषु कथञ्चित् दृश्यमानोऽपि वैदर्भ एव, यो दाक्षिणात्यानां सहजः । गौडीयोऽपि दाक्षिणात्येषु कथञ्चिद् दृश्यते तथापि पौरस्त्यानामेवासौ निजत्वात् । तदेतौ काव्यरचनाप्रकारौ मार्गौ प्रकृतिविलक्षणो दक्षिणात्यैर्गौडैश्च व्यपदिश्ये17b ते । निजत्वाद् देशभाषादिवत् वैदर्भगौडीय इति । एतावत्तु स्यात् ।