28

वैदर्भमन्यदस्तीति मन्यन्ते सुधियोऽपरे ।
तदेव च किल ज्यायः सदर्थमपि नापरम् ॥
गौडीयमिदमेतत्तु वैदर्भमिति किं पृथक् ।
गतानुगतिकन्यायान्नानाख्येयममेधसाम् ॥
41 इति, तद् भङ्ग्या निरस्तम् । तथाहि—कश्चित्काव्यरचनाप्रकारः शब्दालंकारलक्षणो दाक्षिणात्यानां निजो वैदर्भमार्ग इति व्यवह्रियते, यथा यानविशेषो दक्षिणमार्ग इति । तद्विपरीतस्तु पौरस्त्यानां काव्यरचनाप्रकारो गौडीय इति व्यपदिश्यते । यथा दक्षिणमार्गविलक्षणो यानप्रकार उत्तरमार्ग इति । ततश्च वास्तवीयं नानाता कथममेधसाम् । या हि भ्रान्तिकृता सा भवेदमेधसां विपरीतदृशाम्, यथैकस्मिन्न[पि] चन्द्रमसि । इयं तु सुमेधसामपि, विपरीतदृशामेव, वस्तुभेदकृतत्वात् सू[र्या]चन्द्रमसोरिव । तस्मात् स्वभावत एव विलक्षणावेतौ मार्गौ । यद्वक्ष्यति—इति मार्गद्वयं भिन्नं तत्स्वरूपनिरूपणात् । इति ।42

अथ मतं कथं तर्हि पौरस्त्येषु वैदर्भो दृश्यते पद्यसाधारणो यथा दाक्षिणात्यानामेव । दाक्षिणात्येषु वा गौडीय इति । तत्किमेतावता तेषामसौ निजः स्यात् । तेष्वसौ दृश्यमानोऽपि न निजः दक्षिणमार्गवत्, यथा दाक्षिणात्यानाम् । नहि चन्दनं देशान्तरे दृश्यत इति तज्जमेव स्यात् । देशान्तरदृष्टमपि हि मलयजमेव तत् । तथा वैदर्भः पौरस्त्येषु कथञ्चित् दृश्यमानोऽपि वैदर्भ एव, यो दाक्षिणात्यानां सहजः । गौडीयोऽपि दाक्षिणात्येषु कथञ्चिद् दृश्यते तथापि पौरस्त्यानामेवासौ निजत्वात् । तदेतौ काव्यरचनाप्रकारौ मार्गौ प्रकृतिविलक्षणो दक्षिणात्यैर्गौडैश्च व्यपदिश्ये

  1. काव्यालङ्कारे १.३१-३२
  2. १. १०१