30 येन तदस्पृष्टशैथिल्यमित्यत्र श्लिष्टं विधीयते । यद् दृढबन्धकाव्यं तत् श्लिष्टं श्लेषयोगाद्वेदितव्यमिति । स्वतन्त्रस्य धर्मस्यासम्भवात् धर्मिनिष्ठः श्लेषो दर्शितः प्राक् । तन्मते विवक्षया स्वशब्देनोपात्तः । एवं प्रसादादिष्वप्यनुसर्त्तव्यम् । श्लेषविपर्ययं दर्शयन्नाह—अल्पप्राणेत्यादि । अल्पप्राणानि वर्गप्रथमादीनि अक्षराणि उत्तराणि भूयांसि यस्मिन् तैर्वोत्तरमधिकं तदनूद्य शिथिलं विधीयते । अल्पप्राणवर्णप्रायं तच्छिथिलं श्लिष्टविपरीतं काव्यं वेदितव्यम् इति । यथेत्युदाहरति । यथेदं शिथिलं तथान्यदप्येवंजातीयकं द्रष्टव्यमिति यथाशब्दार्थः । एवमुत्तरत्राप्यनुगन्तव्यम् । मालतीमाला जातिपुष्पस्त्रगियं लोलैः कुसुमसौरभलोलुपैरलिभिर्भ्रभरैः कलिला व्याप्ता इत्यर्थः ॥

यदि शैथिल्यं दुष्टमेवंविधं गौडैरादृतम्, तदिहापि केनचित् गुणेन भवितव्यम् अन्यथा सर्वथा निर्गुणं कथमाद्रियत इत्याह—

अनुप्रासधिया गौडैस्तदिष्टं बन्धगौरवात् ।
वैदर्भैर्मालतीदाम लंघितं भ्रमरैरिति ॥ ४४ ॥

तदिति शिथिलमिष्टमादृतं गौड़ैरनुप्रासो माधुर्यसंगृहीतः शब्दालङ्कारस्तस्य तस्मिन् बुद्ध्याऽनुप्रासः शब्दरसो गुणोऽस्तीति तैरेवंविधमिष्टम् । शैथिल्यं तु दोषो न दृष्टः । अनुप्रासधियेत्यनेन चैतत् कथयति । अनुप्रासोऽपि गौडानामेवंविधो यः शैथिल्यमा