यथा—
अत्र शास्त्रे विस्तरप्रतिपादितस्य धर्मस्य श्लोकार्धेनोक्त16त्वादयमर्थसंकोचः संक्षेपः ॥
संक्षेप इति । तस्येत्यर्थस्य समासे गुणीभूतस्यापि बुध्द्या विभज्य परामर्शः । यथा—‘अथ शब्दानुशासनम् । केषां ? शब्दानामि'ति । अशेषविशेषोपग्राहकपुरस्कारेण वाक्यार्थस्याभिधानं विवृतसंवृतपटवत्संक्षेपः ॥ श्रूयतामिति । अत्र तेन तेन विशेषेण विस्तरतः प्रतिपादयितव्यस्य धर्मस्य यत्किंचिदात्मनः प्रतिकूलमन्यस्य नाचरणीयमिति सामान्येनाभिधानमप्रवृत्तप्रवर्तने प्रगल्भायमानमतिसुन्दरमाभासते । नात्र रचनासंकोचप्रतिष्ठितं काव्यमिति शब्दगुणाद्भेदः ॥
यथा—
अत्र प्रणवलक्षणस्यार्थस्य तुल्यत्वेन यथावद्विभज्य विनिवेशनं संमितत्वम् ॥
शब्दार्थाविति । शब्दस्यार्थौ तयोर्विभज्य विनिवेशनं संमितत्वमिति केचित्, तन्न । शब्दग्रहणवैयर्थ्यप्रसङ्गात् । द्वित्वाविवक्षाप्रसङ्गाच्च ।